Saved Bookmarks
| 1. |
बघेलखण्डे प्रमुखतया तिस्रः एव दीर्घाः नद्यः सन्ति। पुण्यतमा तमसा (टमस), महानदसोनभद्रः, पुण्यसलिला नर्मदा च। अत्र सर्वमाहत्य लघुदीर्घाकारिकाः नद्यः विंषत्यधिकाः बघेलखण्डक्षेत्रे प्रवहन्ति। यथा वीहर, विछिया, महाना, गोरमा, गोपदवनास, धसान,सेमरावल, सितारा, असराल, सतना, नगौरा, पयस्विनी इत्यादयः अनेकास्सन्ति। रेवामण्डले एव पंच नद्यः प्रपातं निर्मायागे्र सरन्ति। यथा वीहर नदी चचाई प्रपातं निर्माति यस्य गभीरता 372 फीट अस्ति। तमसा (टमसनदी) 200 फीट गह्वरं प्रपातं पुरवा-ग्रामे निर्मायाग्रेसरति। महानदी क्योटी प्रपातं 333 फीट गभीरं निर्मायाग्रे प्रवहन्ती त्योथर जनपदे तमसानद्यां मिलति। ओड्डानदी मऊगंज जनपदे वहुती प्रपातं सर्वाधिक गभीरं निर्मीयागे्र प्रवहति। एतस्याः गभीरता 465 फीट अस्ति। गोरमा नदी 334 फीट गभीरं निर्माति। |
| Answer» | |