InterviewSolution
| 1. | 
                                    Essay on my school in sanskrit | 
                            
| 
                                   
Answer»  शिक्षणसम्बद्धाः संस्थाः भवन्ति । भारतीय शालाशिक्षणक्रमे नवोदयविद्यालयपद्धतिकल्पना नूतना अस्ति । एतेषाम् आशयः अस्ति अत्र ग्रामीणबालाः ये धीमन्तः भवन्ति तान् चित्वा तेभ्यः शिक्षणदानम् इति । शिक्षणे गुणवत्ताम् अपि परिगणय्य एते विद्यालयाः स्थापिताः सन्ति । एते आवसीयविद्यालयाः सन्ति । एतावत्पर्यन्तं गुणवत्ताशिक्षणं केवलं धनिकपुत्राणाम् कृते लभ्यते स्म । राष्ट्रियशिक्षानियमस्य (१९८६) अनुगुणं जवाहरलालनवोदयविद्यलयाः स्थापिताः ।प्रतिवर्षं प्रवेशार्थं परीक्षा प्रचाल्यते । परिशिष्टजातीयस्य परिशिष्टवर्गस्य बालानां कृते आरक्षणं भवति । स्थानेषु १/३ भागः बालिकानां कृते आरक्षितः भवति । विकलाङ्गानां कृते अपि ३ प्रतिशतम् आरक्षितः भवति । षष्टकक्ष्यातः आरभ्य द्वादशकक्ष्यापर्यन्तम् अत्र केन्द्रीयमाध्यमिकशिक्षामण्डल्याः पाठ्यक्रमः अनुस्रियते । बालकाः बालिकाः च एकत्र पठन्ति । नवमीतः आरभ्य मासे २०० रूप्यकाणि शुल्करूपेण स्वीक्रियते । परन्तु परिशिष्टजातीयानां, परिशिष्टवर्गस्य, बालिकानां, विकलाङ्गीयच्छात्राणां च शुल्कं न भवति । दारिद्र्यरेखातः अधः ये भवन्ति ते अपि शुल्कदानेन विमुक्ताः भवन्ति । नवोदयविद्यालयाः ग्रामीणभागेषु एव स्थापिताः सन्ति । राज्यसर्वकाराः एतदर्थं विना शुल्कं भूमिं दद्युः । तात्कालिकरूपेण भवनं दद्युः यावत् पर्यन्तं नूतनभवनस्य निर्माणं न भवेत् ।  | 
                            |