InterviewSolution
Saved Bookmarks
| 1. |
Slogan on independence day in Sanskrit |
|
Answer» भारतो मम देशोऽयं भारतीयाश्च बान्धवाः । परानुरक्तिरस्मिन् मे देशेऽस्ति मम सर्वदा ॥१॥ समृद्धाः विविधाश्चास्य या देशस्य परम्पराः । सन्ति ताः प्रति मे नित्यम् अभिमानोन्नतम् शिरः ॥२॥ प्रयतिष्ये सदा चाहम् आसादयितुम् अर्हताम् । येन तासाम् भविष्यामि श्रद्धायुक्तः पदानुगः ॥३॥ संमानयेयं पितर वयोज्येष्ठान् गुरुंस्तथा । सौजन्येनैव वर्तेय तथा सर्वैरहं सदा ॥४॥ स्वकियेन हि देशेन स्वदेशीयैश्च बान्धवैः । एकान्तनिष्ठं आचारं प्रतिजाने हि सर्वदा ॥५॥ एतेषामेव कल्याणे समुत्कर्षे तथैव च | नूनं विनिहितं सर्वं सौख्यं आत्यन्तिकं मम ||६|| Explanation: |
|